अथवा बुध्दियोगाद्धनञ्जय इति आरभ्य,
परमार्थ-दर्शन-लक्षणा एव सर्वतः सम्प्लुतोदक-स्थानीया कर्मयोगज-सत्त्व-शुद्धि-जनिता बुद्धिः दर्शिता साक्षात् सुकृत,
दुष्कृत-प्रहाणादि-हेतुत्व-श्रवणात् ।। ५१ ।।
|
அல்லது
புத்தியோகாத் தநஞ்ஜய என்பது தொடங்கி, பேருண்மை காட்சிதான் எங்கும் பரந்த ஏரி
உருவகத்தால், கர்மயோகத்தினின்று விளைந்த மனத்தூய்மையினின்று பிறந்த அறிவு/
கண்ணோட்டம் காட்டப்பட்டதாகக் கொள்ளவேண்டும், நன்றும், தீதும் விடுவதாகக்
கூறப்படுவதால் - ௫௧.
|
योगानुष्ठान-जनित-सत्त्व-शुद्धिजा
बुद्धिः कदा प्राप्यते इति उच्यते ---
|
கர்மயோகத்தினைக்
கடைப்பிடிப்பதால் ஏற்படுகிற மனத்தூய்மை எப்பொழுது கிட்டும் என்பது இனி
கூறப்படுகிறது ---
|
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति
|
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च || श्रीमद्भगवद्गीता २- ५२||
यदा =
|
यस्मिन्-काले
|
எப்பொழுது
|
ते =
|
तव
|
உனது
|
मोहकलिलं =
|
मोहात्मकम्
अविवेक-रूपं कालुष्यं येन आत्मानात्म-विवेक-बोधं कलुषीकृषयं प्रति अन्तः करणं
प्रवर्तते
|
மயக்குகின்ற,
அறியாமையாகிற இருட்டை
|
बुद्धिः व्यतितरिष्यति =
|
व्यतिक्रमिष्यति
शुद्धिभावं आपत्स्यते इत्यर्थः ।
|
கடக்கிறது,
தூய்மையை அடைகிறது என்று பொருள்.
|
तदा =
|
तस्मिन्काले
|
அப்பொழுது
|
गन्तासि =
|
प्राप्स्यसि
|
அடைவாய்
|
निर्वेदं =
|
वैराग्य
|
பற்றின்மை
|
श्रोतव्यस्य श्रुतस्य च =
|
तदा
श्रोतव्यं श्रुतं च निष्फलं प्रतिपद्यते इति अभिप्रायः ।। ५२ ।।
|
கேட்பதிலும்,
கேட்டதிலும்
|
मोहकलिलात्ययद्वारेण
लव्धात्मविवेकज-प्रज्ञः कदा कर्मयोगजं फलं परमार्थयोगम् अवाप्स्यामि इति चेत्
शृणु---
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि || श्रीमद्भगवद्गीता २- ५३||
श्रुतिविप्रतिपन्न =
|
अनेक-साध्य-साधन-सम्बन्ध-प्रकाशन-श्रुतिभिः
श्रवणैः विप्रतिपन्ना नानाप्रतिपन्ना विक्षिप्ता सति
|
ते =
|
तव बुद्धिः
|
यदा =
|
यस्मिन्काले
|
स्थास्यति =
|
स्थिरिभूता
भविष्यति
|
नश्चला =
|
विक्षेपचलनवर्जिता
सति
|
समाधावचला =
|
समाधीयते
चिक्तम् अस्मिन् इति समाधिः आत्मा तस्मिन् आत्मनि इति एतत्।
|
अचला =
|
तत्रापि
विकल्पवर्जिता इति एतत्।
|
बुद्धिः =
|
अन्तःकरणम्,
|
तदा =
|
तस्मिन्काले
|
योगम् अवाप्स्यसि =
|
विवेकप्रज्ञां
समाधिं प्राप्स्यसि ।। ५४ ।।
|
प्रश्नबीजं
प्रतिलभ्य अर्जुनः उवाच लब्धिप्रज्ञस्य लक्षणबुभुत्सया ---
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् || श्रीमद्भगवद्गीता २- ५४||
स्थितप्रज्ञस्य =
|
अहम् अस्मि
परं ब्रह्म इति प्रज्ञा यस्य सः स्थितप्रज्ञः तस्य
|
का भाषा =
|
किं भाषणं
वचनं कथम् असौ परैः भाष्यते
|
समाधिस्थस्य =
|
समाधौ
स्थितस्य
|
स्थितधीः =
|
स्थितप्रज्ञः
स्वयं वा
|
किमासीत व्रजेत किम् =
|
आसनं
व्रजेनं वा तस्य कथम् इत्यर्थः ।
|
स्थितप्रज्ञस्य
लक्षणम् अनेन श्लोकेन पृच्छति ।। ५४ ।।
यो हि अदित एव
सन्न्यस्य कर्माणि ज्ञानयोगनिष्ठायां प्रवृक्तो यः च कर्मयोगेन,तयोः
स्थितप्रज्ञस्य प्रजहाति इति आरभ्य अध्याय- परिसमाप्तिपर्यन्तं स्थितप्रज्ञलक्षणं
साधनं च उपदिश्यते ।
सर्वत्र एव हि
अध्यात्मशात्रे कृतार्थलक्षणानि यानि तानि एव साधन्नि उपदिश्यन्ते यत्नसाध्यत्वात्
। यानि यत्नसाध्यानि साधनानि लक्षणानि च भवन्ति तानि ।
श्रीभगवानुवाच |
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |
आत्मन्येवात्मना
तुष्टः स्थितप्रज्ञस्तदोच्यते || श्रीमद्भगवद्गीता २- ५५||