पारायण-श्रीमद्-भगवद्-गीता


।। श्रीहरिः ।।

।। श्रीमद्-भगवद्-गीता ।।
।। ध्यानश्-श्लोकाः ।।
ओं पार्थायप्-प्रतिबोधितां, भगवता, नारायणेनस्-स्वयं, व्यासेनग्-ग्रथितां पुराण-मुनिना, मध्ये महाभारतम् ।
अद्वैतामृत-वर्षिणीं भगवतीं, अष्टादशाध्यायिनीं, अम्बत्-त्वामनुसन्दधामि, भगवद्-गीते भवद्वेषिणीम् ।। 1
नमोस्तु ते व्यास विशालबुद्धे, फुल्लारविन्दायत-पत्र-नेत्र ।येनत्-त्वया भारत-तैल-पूर्णः, प्रज्वालितोज्-ज्ञानमयः प्रदीपः ।। 2 ।।
प्रपन्न-पारीजाताय, तोत्त्र-वेत्रैक-पाणये । ज्ञान-मुद्राय कृष्णाय, गीतामृत-दुहे नमः ।। 3 ।।
सर्वोपनिषदो गावः, दोग्धा गोपाल-नन्दनः। पार्थो वत्सस्-सुधीर्भोक्ता, दुग्धं गीतामृतं महत् ।। 4 ।।  
वसुदेव-सुतन्-देवं, कंस-चाणूर-मर्दनम् । देवकी-परमानन्दं, कृष्णँ-वन्दे जगद्-गुरुम् ।। 5 ।।
भीष्मद्-द्रोण-तटा जयद्रथ-जला, गान्धार-नीलोत्पला, शल्य-ग्राहवती कृपेण वहनी, कर्णेन वेलाकुला ।अश्वत्थाम-विकर्ण-घोर-मकरा, दुर्योधनावर्तिनी, सोत्तीर्णा खलु पाण्डवै रणनदी, कैवर्तकः केशवः ।। 6 ।।
पाराशर्य-वचस्-सरोजममलं, गीतार्थ-गन्धोत्कटं, नानाख्यानक-केसरं, हरिकथा-सम्बोधनाबोधितम्।लोके सज्जन-षट्पदैरहरहः, पेपीयमानं मुदा, भूयाद्-भारत-पङ्कजं, कलिमलप्-प्रध्वंसि नश्श्रेयसे।। 7 ।।
मूकङ्-करोति वाचालं, पङ्गुँ-लङ्घयते गिरिम् । यत्-कृपा तमहँ-वन्दे, परमानन्द-माधवम् ।। 8 ।।
यं ब्रम्हा वरुणेन्द्र-रुद्र-मरुतः, स्तुन्वन्ति दिव्यैस्-स्तवैः, वेदैस्-साङ्ग-पद-क्रमोपनिषदैः, गायन्ति यं सामगाः।    ध्यानावस्थित-तद्-गतेन मनसा, पश्यन्ति यँ-योगिनः, यस्यान्तन्-न विदुस्-सुरासुर-गणाः, देवाय तस्मै नमः।। 9 ।।



।। अथ प्रथमोध्यायः ।।
धर्मक्-क्षेत्रे कुरुक्-क्षेत्रे, समवेता युयुत्सवःमामकाः पाण्डवाश्-चैव, किमकुर्वत सञ्जय ।। (11) ।।
दृष्ट्वा तु पाण्डवानीकं, व्यूढन्-दुर्योधनस्-तदाआचार्यमुपसङ्गम्य, राजा वचनमब्रवीत् ।। (12) ।।
पश्यैतां पाण्डु-पुत्राणाम्, आचार्य महतीञ्-चमूम्व्यूढान्-द्रुपद-पुत्रेण, तव शिष्येण धीमता ।।(13)।।
अत्र शूरा महेष्वासाः, भीमार्जुन-समा युधियुयुधानो विराटश्-च, द्रुपदश्-च महारथः ।।(14) ।।
धृष्टकेतुश्-चेकितानः, काशिराजश्-च वीर्यवान्पुरुजित्-कुन्तिभोजश्-च, शैब्यश्-च नरपुङ्गवः।।(15) ।।
युधामन्युश्-च विक्रान्तः, उत्तमौजाश्-च वीर्यवान्सौभद्रो द्रौपदेयाश्-च, सर्व एव महारथाः ।।(16) ।।
अस्माकन्-तु विशिष्टा ये, तान्-निबोधद्-द्विजोत्तमनायका मम सैन्यस्य, सञ्ज्ञार्थन्-तान् ब्रवीमि ते ।।(17)।।
भवान्-भीष्मश्-च कर्णश्-च, कृपश्-च समितिञ्जयःअश्वत्थामा विकर्णश्-च, सौमदत्तिस्-तथैव ।।(18) ।।
अन्ये बहवश्-शूराः, मदर्थे त्यक्त-जीविताःनाना-शस्त्रप्-प्रहरणाः, सर्वे युद्ध-विशारदाः ।।(19) ।।
अपर्याप्तन्-तदस्माकं, बलं भीष्माभिरक्षितम्पर्याप्तन्-त्विदमेतेषां, बलं भीमाभीरक्षितम् (110) ।।
अयनेषु सर्वेषु, यथा-भागमवस्थिताः भीष्ममेवाभिरक्षन्तु, भवन्तस्-सर्व एव हि।।(111) ।।
तस्य सञ्जनयन्-हर्षं, कुरु-वृद्धः पितामहःसिंह-नादं विनद्योच्चैः, शङ्खान्-दध्मौ प्रतापवान् ।।(112) ।।
ततश्-शङ्खाश्-च भेर्यश्-च, पणवानक-गोमुखाःसहसैवाभ्यहन्यन्तः, शब्दस्-तुमुलोभवत् ।।113) ।।
ततश्-श्वेतैर्-हयैर्-युक्ते, महतिस्-स्यन्दने स्थितौ माधवः पाण्डवश्-चैव, दिव्यौ शङखौ प्रदध्मतुः ।।(114) ।।
पाञ्चजन्यं हृषीकेशः, देवदत्तन्-धनञ्जयः पौण्ड्रं दध्मौ महा-शङखं, भीम-कर्मा वृकोदरः ।।(115)।।
अनन्त-विजयं राजा, कुन्ती-पुत्रो युधिष्ठिरःनकुलस्-सहदेवश्-च, सुघोष-मणि-पुष्पकौ ।।116)।।
काश्यश्-च परमेष्वासः, शिखण्डी महारथःधृष्टद्युम्नो विराटश्-च, सात्यकिश्-चापराजितः ।।(117) ।।
द्रुपदो द्रौपदेयाश्-च, सर्वशः पृथिवी-पतेसौभद्रश्-च महाबाहुः, शङखान्-दध्मुः पृथक् पृथक् ।।(118) ।।
घोषो धार्तराष्ट्राणां, हृदयानि व्यदारयत्नभश्-च पृथिवीञ्-चैव, तुमुलो व्यनुनादयन् ।।(119) ।।
अथ व्यवस्थितान्-दृष्ट्वा, धार्तराष्ट्रान् कपि-ध्वजःप्रवृत्ते शस्त्र-सम्पाते, धनुरुद्यम्य पाण्डवः ।।(120) ।।
हृषीकेशं तदा वाक्यम्, इदमाह महीपते
अर्जुन उवाच
सेनयोरुभयोर्-मध्ये, रथं स्थापय मेच्युत ।।(121) ।।
यावदेतान्-निरीक्षेहं, योद्धुकामानवस्थितान् । कैर्-मया सह योद्धुव्यम्, अस्मिन् रण-समुद्यमे ।।(1।22)।।
योत्स्यमानानवेक्षेहं, य एतेत्र  समागताः । धार्तराष्ट्रस्य दुर्बुद्धेः, युद्धे प्रिय-चिकीर्षवः ।।(1।23)।।
सञ्जय उवाच
एवमुक्तो हृषीकेशः, गुडाकेशेन भारत । सेनयोरुभयोर्-मध्ये, स्थापयित्वा रथोत्तमम् ।। (1।24))।।
भीष्मद्-द्रोणप्-प्रमुखतः, सर्वेषाञ्-च महीक्षिताम् । उवाच पार्थ पश्यैतान्, समवेतान्-कुरूनिति ।। (1।25) ।।
तत्रापश्यत्-स्थितान् पार्थः, पितनथ पितामहान् । आचार्यान्-मातुलान्-भ्रातन्, पुत्रान्-पौत्रान्-सखींस्-तथा ।। (1।26) ।।
श्वशुरान् सुहृदश्-चैव, सेनयोरुभयोरपि । तान्-समीक्ष्य स कौन्तेयः, सर्वान्-बन्धूनवस्थितान् ।। (1।27) ।।
सज्चय उवाच
कृपया परयाविष्टः, विषीदन्निदमब्रवीत् । दृष्ट्वेमं स्वजनङ्-कृष्ण, युयुत्सुं समुपस्थितम् ।। (1।28) ।।
सीदन्ति मम गात्राणि, मुखञ्-च परिशुष्यति । वेपथुश्-च शरीरे मे, रोम-हर्षश्-च जायते ।। (1।31) ।।
गाण्डीवं स्रंसते हस्तात्, त्वक्-चैव परिदह्यते । न च शक्नोम्यवस्थातुं, भ्रमतीव च मे मनः ।। (1।32) ।।
निमित्तानि च पश्यामि, विपरीतानि केशव । न च श्रेयोनुपश्यामि, हत्वा स्वजनमाहवे ।। (1।33) ।।
न काङ्क्षे विजयङ्-कृष्ण, न च राज्यं सुखानि च ।किन्-नो राज्येन गोविन्द, किं भोगैर्-जीवितेन वा ।। (1।34) ।।
येषामर्थे काङ्क्षितन्-नः, राज्यं भोगास्-सुखानि च । त इमेवस्थिता युद्धे, प्राणांस्-त्यक्त्वा धनानि च ।। (1।35) ।।
आचार्याः पितरः पुत्राः, तथैव च पितामहाः । मातुलाश्-श्वशुराः पौत्राः, श्यालास्-सम्बन्धिनस्-तथा ।। (1।36) ।।
एतान्-न हन्तुमिच्छामि, घ्नतोपि मधु-सूदन । अपित्-त्रैलोक्य-राज्यस्य, हेतोः किन्-नु महीकृते ।। (1।37) ।।
निहत्य धार्तराष्ट्रान्-नः, का प्रीतिस्-स्याज्-जनार्दन ।  पापमेवाश्रयेदस्मान्, हत्वैतानाततायिनः ।। (1।38) ।।
तस्मान्-नार्हा वयं हन्तुं, धार्तराष्ट्रान् स्वबान्धवान् । स्वजनं हि कथं हत्वा, सुखिनस्-स्याम माधव ।। (1।39) ।।
यद्यप्येते न पश्यन्ति, लोभोपहत-चेतसः । कुल-क्षय-कृतन्-दोषं, मित्रद्-द्रोहे च पातकम् ।। (1।40) ।।
कथं नज्-ज्ञेयमस्माभिः, पापादस्मान्-निवर्तितुम् । कुल-क्षय-कृतन्-दोषं, प्रपश्यद्भिर्-जनार्दन ।। (1।41) ।।
कुल-क्षये प्रणश्यन्ति, कुल-धर्मास्-सनातनाः । धर्मे नष्टे कुलङ्-कृत्स्नम्, अधर्मोभिभवत्युत ।। (1।42) ।।
अधर्माभिभवात् कृष्ण, प्रदुष्यन्ति कुल-स्त्रियः । स्त्रीषु  दुष्टासु वार्ष्णेय, जायते वर्ण-सङ्करः ।। (1।43) ।।
सङ्करो नरकायैव, कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां, लुप्त-पिण्डोदकक्-क्रियाः ।। (1।44) ।।
दोषैरेतैः कुलघ्नानां, वर्ण-सङ्कर-कारकैः । उत्साद्यन्ते जाति-धर्माः, कुल-धर्माश्-च शाश्वताः ।। (1।45) ।।
उत्सन्न-कुल-धर्माणां, मनुष्याणाञ्-जनार्दन । नरकेनियतं वासः, भवतीत्यनुशुश्रुम ।।(1।46) ।।
अहो बत महत्पापं, कर्तुँ व्यवसिता वयम् । यद्राज्य-सुख-लोभेन, हन्तुं स्वजनमुद्यताः ।। (1।47) ।।
यदि मामप्रतीकारम्, अशस्त्रं शस्त्र-पाणयः । धार्तराष्ट्रा रणे हन्युः, तन्-मे क्षेमतरं भवेत् ।। (1।48) ।।
सञ्चय उवाच
एवमुक्त्वार्जुनस्-सङ्ख्ये, रथोपस्थ उपाविशत् । विसृज्य सशरं चापं, शोक-संविग्न-मानसः ।। (1।49) ।।
ओम् तत्सत्, इति, श्रीमद्भगवद्गीतासु, उपनिषत्सु, ब्रम्ह-विद्यायां, योग-शास्त्रे, श्रीकृष्णार्जुन-संवादे, अर्जुन-विषाद-योगो नाम, प्रथमोध्यायः ।। 1 ।।